पूर्वम्: ६।२।१३९
अनन्तरम्: ६।२।१४१
 
सूत्रम्
देवताद्वंद्वे च॥ ६।२।१४०
काशिका-वृत्तिः
देवताद्वन्द्वे च ६।२।१४१

देवतावाचिनां यो द्वन्द्वस् तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रासोमौ। इन्द्रावरुणौ। इन्द्राबृहस्पती। ऋज्रेन्द्राग्र इति इन्द्रशब्दः आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेन आद्युदात्तः बृहस्पतिशब्दे वनस्पत्यादित्वात् द्वावुदात्तौ, तेन इन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्लक्षन्यग्रोधौ। द्वन्द्वग्रहणं किम्? अग्निष्टोमः।
न्यासः
देवताद्वन्द्वे च। , ६।२।१४०

"इन्द्रासोमौ" इति। "देवताद्वन्द्वे च" इति पूर्वपदस्यानङ्()। "ऋज्रेन्द्र" इत्यादि। "वृधिवपिभ्यां रन्()" (द।उ।८।४५), इत्यतो रन्नित्यनुवर्तगाने "ऋज्रेन्द्रः" (द।उ।८।४६) इतीन्द्रशब्दो रन्प्रत्ययान्तो निपात्यते, तेनाद्युदात्तः। "सोम इति मन्प्रत्ययान्तः" इति। तेन सोऽप्याद्युदात्त एवेत्यभिप्रायः। मन्प्रत्ययान्तत्वं च तस्य "षुञ्? अभिषवे" (धा।पा।१२४७) इत्यस्मात्? "अर्त्तिस्तुसुहुरुआउ" (द।उ।७।२६) इत्यादिना मन्प्रत्ययमुत्पाद्य व्युत्पादितत्वात्()। "वरुण उनन्प्रत्ययान्तः" इति। "कृवृदारिभ्य उनन्()" पं।उ।३।५३) इति। बृहस्पतिशब्दो हि वनस्पत्यादिषु पठ()ते, तत्र च पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं विधीयते, तेन द्वावुदात्तौ। "तेनेन्द्राबृहस्पती इत्यत्र तत्र उदात्ताः" इति। इन्द्रशब्दादयः। "प्लक्षन्यग्रोधौ" इति। अत्र समासान्तोदात्तत्वमेव भवति। एवं "अग्निष्टोमः" इत्यत्रापि। षष्ठीसमासश्चायम्()। समासस्वरापवादो योगः॥